________________
अवचूर्णि
परिशिष्टम्
सहिते
योगशास्त्र
स्याद्यप्रकाश
चतुष्टये
चतुर्थः प्रकाशः
इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते ।
वीरैः कृष्टेष्टकः पूर्व वमः कैः कैन खण्ड्यते ॥ २६ ॥ इन्द्रिय० । वीरैः शूरैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः कैः कैः कातरैरपि न खण्ड्यते ॥ २६ ॥
कुलघाताय पाताय बन्धाय च वधाय च ।
अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥ २७ ॥ कुल । वंशोच्छेदाय पाताय राज्यादिभ्रंशाय सोदासस्येव । बन्धाय चण्डप्रद्योतनपस्येव । वधाय च रावणस्येव । अनिर्जितानि अनिगृहीतानि इन्द्रियाणि जायन्ते ॥ २७ ॥ अत्रान्तरश्लोकाः १२ ॥ अथ पञ्चानामपीन्द्रियाणां दोषं पृथक् व्याचिख्यासुः पूर्वं स्पर्शनेन्द्रियदोषमाह
वशास्पर्शसुखास्वादप्रसारितकरः करी ।
आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ २८ ॥ वशास्पर्श । वशा हस्तिनी, तस्याः स्पर्शसुखास्वादाय प्रसारितशुण्डो गजः आसादयति प्राप्नोति ॥ २८ ॥ रसनादोषमाह
पयस्यगाधे विचरन् गिलन् गलगतामिषम् ।
मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ २९ ।। पय० । गलो रज्जुबद्धो लोहकण्टकः । मात्स्यिकस्य करे मत्स्यः पतति ॥ २९ ।।
For Private & Personal Use Only
॥ १४३४॥
10
Jain Education
anal
www.jainelibrary.org