________________
॥१४३३ ॥
एवं च
क्षान्त्या क्रोधो मृद त्वेन मानो मायाऽऽजवेन च ।
लोभश्चानीहया जेयाः कषाया इति सङ्ग्रहः ।। २३ ॥ एवं०। एवं चेति पदेन वक्ष्यमाणसङ्ग्रहश्लोकस्यावसरमाह । क्षान्त्यादिना पूर्वोक्तकषायनिग्रहसङ्ग्रहः ॥ २३ ॥
HSHRECIREVENTIRISHISHEIEEEEEEEEEEEEEEEE
विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः।
हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ २४ ॥ विनेन्द्रियजयं नैव कपायान । इन्द्रियजयं विना कषायान् जेतुं न समर्थः । ज्वलदग्निं विना हैमनं जाडयं न हन्यते । हेमन्ते भव हैमनम् । “ हेमन्ताद्वा तलुक् च [ सिद्ध० ६।३।९१] अनेनाऽणि तलोपे वृद्धौ च सिद्धम् ॥ २४ ॥
अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः ।
आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ २५ ॥ अदा० । इन्द्रियाश्चैरजितैः चलैः एकत्रानवस्थायिभिरुन्मार्गगामिभिः जन्तुर्बलादाकृष्य कृष्टा नरकारण्ये नीयते तत्क्षणात् ॥ २५॥
।।१४३३॥
1 “अजिताक्षः कषायाग्नि विनेतुं न प्रभुभवेत्। अतः क्रोधादिकं जेतुमक्षरोधः प्रशस्यते ॥१०१३॥” इति ज्ञानार्णवे ॥
Jain Education Insonal
For Private & Personal use only
www.jainelibrary.org