________________
षष्ठं परिशिष्टम्
।। १४३० ।।
Jain Education
विनय- श्रुत-शीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन मानोऽन्धकरणो नृणाम् ॥ १२ ॥
ational
सहिते
विन० । शीलं सुस्वभावता, त्रिवर्गस्य धर्माऽर्थ - कामरूपस्य घातकः । अन्धोऽन्धीक्रियतेऽनेनेत्यन्धकरणो मानो योगशास्त्रज्ञेयः ।। १२ ।।
जाति १ लाभ २ कुलै ३ श्वर्य ४ बल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ॥ १३ ॥
जाति० । जात्यादयोऽष्टौ मदाः । एतेषां मदं कुर्वन् पुनर्जन्मान्तरे तानि जात्यादीनि हीनानि लभते ॥ १३ ॥
उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दव सरित्प्लवैः ॥ १४ ॥
उत्स० । दोषशाखा उत्सर्पयन् ऊर्ध्वं नयन् गुणमूलानि अधो नयन् नीचैः कुर्वन् । ततो हेतोर्मानद्रुमो मार्दवस रिप्लवैः मृदुतानदीप्रसारैः विवेकिभिरुन्मूलनीयः ॥ १४ ॥ मानः २ ।
deeeeeeeeeeeeeeeeeeeeeeeeee
1 " कुल-जातीश्वरत्वादिमदमूर्च्छास्तबुद्धिभिः । सद्यः संचीयते कर्म नीचैर्गति निबन्धनम् ॥ ९७७ ॥” इति ज्ञानार्णवे ॥
For Private & Personal Use Only
अवचूर्णि
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
।। १४३० ।।
10
www.jainelibrary.org