________________
॥१४२९॥
HEMEHCHCHCHCHHETRIGHCHCHHEHEHEHCHEHEREHSHOHAdda
तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् ।
दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ ९ ॥ तत्रोः । तत्र तेषु कषायेषु शरीरमनसी उपतापयतीति उपतापकः । तिर्यग्-नरकरूपाया दुर्गतेवर्तनी मार्गः । प्रशमानन्दस्यात्मनि प्रविशतोऽर्गला इव ॥९॥
उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् ।
क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥ १०॥ उत्प० । क्रोध उत्पद्यमानः प्रथमं निजं स्थानं दहति अग्निवत् , पुण्यगुणभस्मसात्करणेन ॥१०॥
क्रोधवस्तदहाय शमनाय शुभात्मभिः।
श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११ ॥ क्रोधः । तस्मात् क्रोधवढेः शमनाय पुण्यात्मभिरेका क्षमैव श्रयणीया संयमारामकुल्यातुल्या ॥ ११॥ क्रोधः १ ।
MICHCHHORIGHHETRIBHEENCHCHEMICHCHHHHHHHHHHHETRE
1 " पूर्वमात्मानमेवासौ क्रोधान्धो दहति ध्रुवम् । पश्चादन्यं न वा लोको विवेकविकलाशयः ॥९३३॥" इति ज्ञानार्णवे॥ 2 "क्रोधवढेः क्षमैकैयं (क्षमैकैव N) प्रशान्तौ (प्रशान्त्यै LFVJ) जलवाहिनी। उहामसंयमारामवृत्तिर्वात्यन्त
निर्भरा ॥ ९३५॥" इति शाणार्णवे ॥
॥ १४२९॥
Jain Education
For Private & Personal Use Only
w
ww.jainelibrary.org