________________
2.
परिशिष्टम्
।। १४२८ ॥
Jain Education
अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५ ॥
tro | अयमात्मैव कषायेन्द्रियनिर्जितः संसारो नारकादिरूपः । कषायादिजेतारं पुनस्तमात्मानमेव मोक्षमाहुः ॥ ५ ॥ स्युः कषायाः क्रोध-मान- माया - लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥ ६ ॥
स्युः क० । कषायाः क्रोध- मान-माया - लोभरूपाः स्युः शरीरिणां जीवानाम् । ते संज्वलनादिभेदैश्चतुर्विधाः ॥ ६ ॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्माऽनन्तानुबन्धकः ॥ ७ ॥
पक्ष० । तृणाग्निवत् ईषद्ज्वलनात्मकः संज्वलनः पक्षमभिव्याप्य भवति । भीमो भीमसेन इतिवत् प्रत्याख्यानावरणः । अप्रत्याख्यानावरणः । नञोऽल्पार्थत्वादरूपं प्रत्याख्यानमावृणोतीति अप्रत्याख्यानावरण: । एवमनन्तं भवमनुबध्नातीति अनन्तानुबन्धकः स्पष्टः ॥ ७ ॥
ional
वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः ।
ते देवत्व - मनुष्यत्व- तिर्यक्त्व - नरकप्रदाः ॥ ८ ॥
वीत । स्वशब्दः सर्वपदेषु योज्यः - वीतरागत्व-यतित्व श्राद्धत्व- सम्यग्दृष्टित्वेत्यादि । ते संज्वलनाद्याः । शेषं स्पष्टम् ॥ ८ ॥
For Private & Personal Use Only
seeeeeeeeeeeeee
अवचूर्णि सहिते योगशास्त्रस्याद्य
प्रकाश
चतुष्टये चतुर्थः
प्रकाशः
।। १४२८ ।।
10
www.jainelibrary.org