________________
॥१४२७॥
पूर्व धर्मधर्मिणोर्भेदमाश्रित्य रत्नत्रयं मुक्तिकारणत्वेनोक्तम् , सम्प्रति तु अभेदनयाश्रयेण आत्मनो रत्नत्रयेण सह एकत्वमाहअथवेति भेदनयापेक्षया प्रकारान्तरस्याऽभेदनयस्य प्रकाशनार्थम् । आत्मैव० यतेः साधोरात्मैव दर्शनादीनि । यस्माद्धेतोस्तदात्मको दर्शनादिस्वरूप एव एष यतेरात्मा वपुराश्रयति । यत आत्मभिन्नानां ज्ञानादीनां मुक्तिहेतुत्वं न स्यात् ॥१॥
आत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि ।
तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २॥ आत्मा० । यो मोहत्यागात् आत्मनि आत्मानं आत्मना स्वयं वेत्ति तदेव अनाश्रवरूपत्वाचारित्रम् १। बाधरूपत्वाज्ज्ञानम् २। श्रद्धानरूपत्वात्तदेव च दर्शनम् ३ ॥२॥
आत्माज्ञानभवं दुःखमात्मज्ञानेन शाम्यति [ हन्यते ।
तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ ३॥ आत्मा० । इह सर्व दुःखमात्माज्ञानभवमनात्मविदां स्यात् । तच्चाऽऽमज्ञानेन शाम्यति क्षयं याति, तम इव प्रकाशेन । आत्मविज्ञानहीनैस्तु तपसाऽपि छेत्तुं न शक्यते, ज्ञानमन्तभरेण तपसोऽफलत्वात् ॥ ३॥
अयमात्मैव चिदूपः शरीरी कर्मयोगतः ।
ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥ ४ ॥ अय० । अयमात्मा चिद्रूपश्चेतनास्वभाव एव कर्मयोगात् शरीरवान् भवति । शुक्लध्यानामिना दग्धकर्मा सन् सिद्धात्मा मुक्तरूपः पुनर्निर्मल: स्यात् ॥ ४॥ ___ 1 एतस्या अवचूा हस्तलिखित आदर्श शाम्यति इति पाठो दृश्यते अन्यत्र तु सर्वत्र हन्यते इति पाठ उपलभ्यते इति ध्येयम् ॥
॥१४२७॥
Jain Education
For Private & Personal use only
www.jainelibrary.org