SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १४२६ ॥ Jain Education इति संक्षेपतः सम्यक् रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ।। १५५ ।। इति० । इति प्रकाशत्रयेण, ज्ञान- दर्शन - चारित्ररूपं त्नत्रयं सम्यग् आगमोक्तविधिना उदीरितं कथितम्, यद् रत्नत्रयमप्राप्य सर्वोऽपि न प्राप्नोति मुक्तिम् ॥ १५५ ॥ onal इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे तृतीयः प्रकाशः ॥ ३ ॥ अथ चतुर्थः प्रकाशः आत्मैव दर्शन - ज्ञान चारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति ।। १ ।। 1 तुला- " दृग्-बोध-चरणान्याहुः स्वमेवाध्यात्मवेदिनः । यतस्तन्मय एवासौ शरीरी वस्तुतः स्थितः ॥ ९९२ ॥ जानाति यः स्वयं स्वस्मिन् स्वस्वरूपं गतभ्रमः । तदेव तस्य विज्ञानं तद् वृत्तं तच्च दर्शनम् ॥ ९९३ ॥ " इति ज्ञानार्णवे ।। For Private & Personal Use Only अवचूर्णि| सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ।। १४२६ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy