________________
॥१४२५॥
GAREEEEEEEEEEEERREEEEEHCHCHCHEHELETEHE
इह । इहलोकादिषु चतुर्यु पदेषु आशंसापदं योज्यम् , इहलोकाशंसा धनादिविषया, परलोकाशंसा स्वर्गादिविषया, जीविताशंसा विशेषदर्शनात् जीवितमेव श्रेय इति मन्यते । मरणाशंसा गृहीतानशनस्य जनादराभावात् शीघ्रं प्रिये इत्यभिप्रायः स्यात् दुःखाद्यसहिष्णोर्वा । तथा निदानम् अस्मात्तपसो जन्मान्तरे चक्रवर्त्यादिः स्यामेवंरूपम् । समाधिसुधया परमस्वास्थ्यामतेन उक्षितः सिक्तः ॥ १५० ॥
परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् ।
प्रतिपद्येत मरणमानन्दः श्रावको यथा ।। १५२ ।। परी०। क्षुदाद्या द्वाविंशतिः परीषहाः दिव्यमानुषतरश्चा आत्मसंवेद्याश्च चतुर्विधा उपसर्गास्तेभ्यो भयरहितः। दशसु श्रीवीरोपासकेषु प्रथम आनन्दः श्रावको यथा ॥ १५२ ॥ [पञ्चभिः कुलकम् । ]
प्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसम्भारभाक् ततः ॥ १५३ ।। च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् ।
विरक्तो मुक्तिमामोति शुद्धात्माऽन्तर्भवाष्टकम् ॥ १५४ ॥ [युग्मम् ] . प्राप्तः । स श्रावकः कल्पेषु स्वर्गेषु इन्द्रत्वमिन्द्रसामानिकादिपदं वा प्राप्तः । अनुत्तरा असाधारणाः प्राज्या बहवो पुण्यसम्भारास्तान् भजते इति भाक् । ततः कल्पेभ्यः ॥ १५३ ॥ च्युत्वा० । च्युत्वा मनुष्येषूत्पद्यते, भोगान् भुक्त्वा विरक्तो बैराग्यवान् मुक्तिं प्राप्नोति । अन्तर्भवाष्टकं भवाष्टकमध्ये ॥१५४॥
For Private & Personal Use Only
MatarnaakMEHEEMEHEHEMERENCHEHRECENSHEHEHSHHHHHet
। १४२५
Jain Education in
|ww.jainelibrary.org