SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ॥ १४२३ ॥ Jain Education Inte Heededa decidedeia वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाssग्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ।। १४४ ॥ वने० । वनमध्ये पद्मासनोपविष्टं उत्सङ्गस्थित मृगबालकं जरन्तो वृद्धा मृगयूथपाः कदा आधास्यन्ति ॥ १४४ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणी मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ १४५ ॥ शत्रौ० । स्त्रैणे स्त्रीसमूहे, अश्मनि पाषाणे, मृदि मृत्तिकायाम्, एतेषु निर्विशेषमतिः तुल्यबुद्धिः कदा भविष्यामि इति ॥१४५॥ अधिरोढुं गुणश्रेणिं निःश्रेणीं मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥ १४६ ॥ अधि० । उत्तरोत्तरगुणस्थानकरूपां गुणश्रेणीं मुक्तिवेश्मनो निःश्रेणीमिवाऽधिरोढुम् इति मनोरथान् कुर्यात् । परश्चासावानन्दश्च परमसामायिकरूपः, स एव लता, तस्याः कन्दभूतान् लोकषट्कोक्तान् मनोरथान् ॥ ९४६ ॥ [ पभिः कुलकम् । ] इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥ १४७ ॥ इति । अहोरात्रभवां च सम्यगाचाररूपाम् । यथावत् सम्यग् विधिना उक्तम् आगमे अभिहितं यद् वृत्तं प्रतिमादि तत्रस्थो गृहस्थोऽपि विशुध्यति ॥ १४७ ॥ For Private & Personal Use Only 5 10 | ।। १४२३ ।। w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy