________________
पष्टं
अवचूर्णि
परिशिष्टम्
सहिते
॥१४२२॥
जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि ।
स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ १४० ।। जिनः । जिनधर्मविमुक्तोऽहं चक्रवर्त्यपि मा भूवम् , जिनधर्मवासितः पुनश्चेटोऽपि दरिद्रोऽपि भवेयं तदा वरम् ॥१४०॥
त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः ।
भजन् माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥ १४१॥ त्यक्त० । त्यक्ता गृह-गृहिण्यादयः सङ्गा येन स त्यक्तसङ्गः। जीर्णं वासो वस्त्रं यस्य स जीर्णवासाः मलखरण्टितदेहः माधुकरी वृत्ति भजन मूलोत्तरगुणरूपं मुनिचर्या कदाऽहं श्रये ॥ १४१ ॥
त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् ।
कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ १४२ ॥ त्यज । दुःशीला द्विधा-लौकिका भण्ड-गणिकाद्याः, लोकोत्तराः पार्श्वस्थाद्याः, तेषां संसर्गम् । योगं रत्नत्रयं ध्यानं वा अभ्यस्यन् अहं संसारोच्छेदाय कदा प्रभवेयं समर्थो भविष्यामि ॥ १४२ ॥
महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः ।
स्तम्भवत् स्कन्धकपणं वृषाः कुयुः कदा मयि ॥ १४३ ॥ महा० । निशीथे कायोत्सर्गे प्रकृते प्रारब्धे स्कन्धकण्डूयनं मयि वृषाः स्तम्भबुद्धया कदा कुर्युः ॥ १४३ ॥
For Private & Personal Use Only
योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः
॥१४२२॥
Jain Education Inter
Ow.jainelibrary.org