________________
॥ १४१९ ॥
Jain Education Inte
BIOSSO
ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ।। १२९ ॥
ततः । सन्ध्यासमये देवपूजां कृत्वा कृतसामायिका दिषड्विधावश्यककर्मा | शेषं स्पष्टम् ॥ १२९ ॥ न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्राल्पामुपासीत प्रायेणाब्रह्मवर्जकः || १३० ||
न्याय्ये॰ | न्यायादनपेतः कालः न्याय्यकालः तस्मिन् प्रथमप्रहरे अर्धरात्रे वा । शरीरसात्म्येन निद्राम् उपासीत सेवेत प्रायेण ब्रह्मचर्यवान् सन् ॥ १३० ॥
निद्राच्छेदे योषिदङ्ग - सतत्त्वं परिचिन्तयेत् ।
स्थूलभद्रादिसाधूनां तन्निवृत्तिं परामृशन् ॥ १३१ ॥
निद्रा० । योषितां वपुः स्वरूपं चिन्तयेत् स्थूलभद्रादिसाधुसंबन्धि स्त्रीनिवृत्तिम् अनुस्मरन् ॥ १३१ ॥
यकुच्छकुन्मल श्लेष्ममज्जास्थिपरिपूरिताः ।
स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ १३२ ॥
यकृ० । यकृत् कालखण्डम् । शकृत् विष्ठा । मलो दन्तादिसम्बन्धी । श्लेष्मा कफः । मज्जा पष्ठधातुः । अस्थीनि च ।
तैः परिपूरिताः । चर्मप्रसेविका भस्त्रा इव स्त्रियो बहिरेव रम्याः स्नसाभिस्यूता ज्ञेयाः ॥ १३२ ॥
For Private & Personal Use Only
leleleleleleleleéðð¤@888H
Balaak
10
।। १४१९ ।।
w.jainelibrary.org