________________
के .
परिशिष्टम्
।। १४९८ ।।
Jain Education Intem
आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ।। १२६ ।।
आस० । आसने उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः । द्वादशावर्तादिरूपा वन्दना । पर्युपासनं सेवा । तद्याने - नुगमः संप्रेषणाय गमनं च गुरोः प्रतिपत्तिः ॥ १२६ ॥ युग्मम् ।
ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधर्माविरोधेन विदधीतार्थचिन्तनम् ।। १२७ ।।
ततः । ततो यथोचितं स्थानं हट्टादौ धर्मानावाधया अर्थचिन्तनं द्रव्योपायचिन्ताम् ॥ १२७ ॥
ततो माध्याह्निकीं पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ।। १२८ ॥
ततो० | तद्विद्भिरेव शास्त्रार्थरहस्यज्ञैः सह । शेषं स्पष्टम् ॥ १२८ ॥
For Private & Personal Use Only
अवचूर्णि| सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। ९४९८ ।। 10
ainelibrary.org