________________
प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेजिनम् ।
पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ १२३ ॥ प्रवि० । तत्र विधिना प्रविश्य त्रीन वारान् जिनं प्रदक्षिणयेत्, प्रदक्षिणां कुर्यात् । उत्तमैः पूर्वकविकृतैरुदारैः स्तोत्रैः स्तुयात् स्तौति ॥ १२३ ॥
ततो गुरूणामभ्यणे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धामा प्रत्याख्यानप्रकाशनम् ॥ १२४ ॥
ततो० । गुरूणां समीपे वक्ष्यमाणप्रतिपत्तिपूर्व प्रत्याख्यानप्रकाशनं विदधीत कुर्यात् ॥ १२४॥
अथ गुरुप्रतिपत्ति श्लोकद्वयमाह
अभ्युत्थानं तदालोकेऽभियानं च तदागमे ।
शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ १२५ ।। अभ्यु । गुर्वालोके अभ्युत्थानम् आसनत्यागः । तेषामागमनेऽभियान संमुखगमनम् । दर्शने मस्तके हस्तयोजनं 'नमो खमासमणाणं' इत्युच्चारपूर्वम् । स्वयमात्मनाऽऽसनढौकनम् ।। १२५ ॥
॥१४१७॥
Jain Education Inter
For Private & Personal Use Only
.jainelibrary.org