SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ॥१४१६॥ BEESHISHESHCHECHESISERICICICICICHINDIGENCIENCE एवं० । एवं पूर्वोक्तप्रकारेण द्वादशवतेषु स्थितो निश्चलचित्तत्वेन सप्तक्षेत्र्यां जिनभवन १-बिंब २-पुस्तक ३-साधु ४साध्वी ५-श्रावक ६-श्राविका ७--रूपायां धनं वपन् अतिदीनेषु अन्ध-पङ्ग्वादिषु दयापरिणामेन महाश्रावक उच्यते ॥ ११९ ॥ यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दृश्चरं स समाचरेत् ।। १२० ।। यः । सद् विद्यमानं बाह्यम् अनित्यं च धनं क्षेत्रेषु न वपेत् सुकरं स वराको दुश्चरं चारित्रं कथं समाचरेत् ॥ १२० ॥ ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुति पठन् । किंधा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् ।। १२१ ॥ ब्राह्मे । पञ्चदशमुहूर्ता रात्रिः, तस्यां चतुर्दशो मुहूर्तो ब्राह्मः, तस्मिन् श्राद्धः पर० 'नमो अरिहंताणमित्यादिकां पञ्चपरमेष्ठिस्तुतिं पठन् उत्तिष्ठेत् को धर्मो यस्याऽसो किंधर्मा अहं किंकुल: किंत्रतो वेति स्मरन् ।। १२१ ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः शुचिः पुष्पामिषस्तोत्रर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२२ ॥ शुचिः । स्नानमुखक्षालनादिना शुचिः। पुप्पम् , आमिषं भोज्यं पेयं च, तच्च पक्वान्न-फला-ऽशत-दीप-तैल-घृतादि, स्तोत्रं शक्रस्तवादिरूपम् , तैः पूर्व स्वगृहे देवमभ्यर्च्य देवगृहं ब्रजेत् , शेषं स्पष्टम् ॥ १२२ ॥ Jain Education in Anal For Private & Personal Use Only 745w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy