SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ॥१४१५॥ RoHHeaxexcxxxCHCHEMERIREMEHERECTREMEMORI अथैकादशवतातिचारानाह उत्सर्गा-दान-संस्ताराद्य(अ)नवेश्याममृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पौषधे ।। ११७ ॥ उत्सर्गा० । अनवेक्ष्य अनालोक्य अप्रतिलेखयित्वा (अप्रतिलेख्य !) च उच्चार-प्रश्रवणादीनां उत्सर्गस्त्यागः १ । एवमनवेक्ष्याऽप्रमृज्य च पीठ-फलकादीनामादानं ग्रहणम् २, दर्भस्य कम्बलादिसंस्तारकस्य वाऽनवक्ष्याऽप्रमृज्य च ग्रहणम् ३, पौषधेऽनादरः ४, पौषधो गृहीतो न वा' इत्यस्मरणं च ५, एते पौषधातिचाराः ॥ ११७ ।। अथातिथिसंविभागवतातिचारानाह सचित्ते क्षेपणं तेन पिधानं काललञ्चनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥ ११८ ॥ सचि० । देयवस्तुनः सचित्ते सजीवे पुथिव्यादौ क्षेपणं निक्षेपः १, सचित्तेन आच्छादनं २, साधूचितभिक्षाकालमुल्लय अनागतं च भुक्ते ३, मार्गितः सन् कुप्यति, सदपि न दत्ते, अथवा 'अनेन दमकेण दत्तम् , अहं किं ततोऽपि हीनः' इति मात्सर्यात् दत्ते ४, 'इदं गुडादि परकीयम् , मम न' इति व्याजे सति अन्यापदेशः ५, चतुर्थ शिक्षाव्रते एतेऽतिचाराः ॥ ११७ ॥ एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ॥ ११९ ॥ ॥१४१५॥ Jain Education Inte ra For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy