SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १४१४ ।। Jain Education eeeeeeeOOOOOOO संयु० । उदूखलेन मुसलम्, धनुषा शरादि । एवं यदेकमधिकरणमधिकरणान्तरेण संयुक्तं तत् संयुक्ताधिकरणम्, तस्य भावः १ । उपभोगाधिक्यम् २ । अनालोचित बहुभाषित्वं मुखरता ३ । कुत्सितः कुचः संकोच: ( कुकुचः ? ) संकोचादिक्रियाभाक्, तद्भावः, नेष्टनासादिविकारैः संकुचनं भण्डचेष्टा ४ । कन्दर्पो रागोद्दीपकं वचः ५ । एते अनर्थदण्डेऽतिचाराः ॥ ११४ ॥ अथ शिक्षाव्रतचतुष्कं व्याख्यानयन् सामायिकातिचारानाह कायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामयिकवते ।। ११५ ।। काय० । कायवाङ्मनसां दुष्टं प्रणिधानं सावयप्रवर्तनम् ३ । अनादरः प्रतिनियतवेलायां सामायिकस्याकरणं योगे सति ४ । स्मरणे सामायिकस्यानुपस्थापनं 'सामायिकं मया कृतं न वा' इति अस्मरणम् ५ । एते सामायिका तिचाराः ॥ ११५ ॥ अथ दशमत्रतातिचारानाह प्रेष्य-प्रयोगानयने पुद् गलक्षेपणं तथा । शब्दरूपानुपातौ च व्रते देशावकाशिके ॥ १९६ ।। प्रेय० । कार्ये उत्पन्ने प्रेप्यस्यादेश्यस्य प्रयोगो व्यापारणम्, स्वयं गमने व्रतभंगभयात् प्रेप्यप्रयोगः ९ । आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य वस्तुनः स्वपार्श्वे प्रापणं प्रेष्येण २ । पुद्गला लोप्टेप्टिकादयस्तेषां क्षेपणं प्रेरणम् ३ । शब्दानुपातो रूपानुपातश्च शब्द (श्रावणेन ४ । रूपदर्शनव्याजेन वाऽऽकारणम् ५ । एते देशावकाशिकवतेऽविचाराः ॥ ११६ ॥ 1 " योगा दुष्प्रणिधानाः ३ स्मृत्यनुपस्थापन ४ मादराभावः ५ । सामायिकस्य जैनैरतिचाराः पञ्च विज्ञेयाः ।। ७।११ ।। " इति अमितगतिविरचिते श्रावकाचारे । For Private & Personal Use Only अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ॥ १४१४ ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy