________________
॥१४११॥
स्फोटजीविकामाह
सर:कूपादिखनन-शिलाकुट्टनकर्मभिः ।
पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ।। १०५ ।। सरः । सर:कूपादीनां खननेन पृथिव्यारम्भसम्भूतैः शिलाकुट्टनकर्मभिर्यज्जीवन सा स्फोटजीविका ॥ १०५ ।। दन्तवाणिज्यमाह
दन्त-केश-नखा-ऽस्थि त्वग्रोम्णो ग्रहणमाकरे ।
त्रसाङ्गस्य वणिज्यार्थ दन्तवाणिज्यमुच्यते ॥ १०६ ।। दन्त । दन्तादीनामाकरे यद् ग्रहणम् , अनाकरे दन्तादेहणेऽपि न तथा दोषः, सजीवावयवस्य वाणिज्यार्थमाकरे उत्पत्तिस्थाने यद् ग्रहणम् ॥ १०६ ॥ लाक्षावाणिज्यमाह
लाक्षा-मनःशिला-नीली-धातकी-टकणादिनः ।
विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०७ ॥ लाक्षा० । लाक्षा प्रसिद्धा, मनःशिला, नीली गुलिका, धातकीवृक्षस्य त्वक् पुष्पं च मद्यसन्धानहेतुः, तथा टंकणः क्षार विशेषः । एषां विक्रयो लाक्षावाणिज्यम् ॥ १०७ ॥
॥१४११॥
Jain Education In
n al
For Private & Personal Use Only
7
ww.jainelibrary.org