SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् पाचनाद्याजीविका, तथाऽयो लोहं तस्य करणघटनाद्याजीविका, सुवर्ण-रूप्ययोर्गालन(न?)घटनाद्याजीविका। तथा ठठारत्वं शुल्व-बङ्गनागकांस्यांदीनां करणघटनाद्याजीविका । इप्टका-कवेल्लकादीनां पाकाद्याजीविका । एवंप्रकारा अङ्गारजीविका ।। १०१॥ वनजीविकामाह छिन्नाच्छिन्नवन-पत्र-प्रसून-फलविक्रयः। कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०२ ॥ छिन्न । छिन्नस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां पुष्पानां फलानां वा विक्रयः तथा कणानां दलनात् घरट्टादिना द्विधा करणात् , शिलापुत्रादिना पेषात् चूर्णीकरणात् या वृत्तिर्वतनं सा वनजीविका ।। १०२ ॥ अथ शकटजीविकामाह शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०३ ।। शक० । शकटस्याङ्गानां चक्रादीनां वा घटनं खेटनं विक्रयश्चेति शकटजीविका ॥ १०३ ॥ भाटकजीविकामाह शकटोक्ष-लुलायोष्ट्र-खरा-5-श्वतर-वाजिनाम् । भारस्य वाहनाद् वृत्तिभवेद् भाटकजीविका ॥ १०४॥ शक० । शकट-उक्ष-वृषभ-लुलाय-महिष-उष्ट्र-खर-अश्वतर-वेसराः, एतेषां भारस्य वाहनाद् या वृत्तिः सा भाटक| जीविका भवेत् ॥ १०४ ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः 4॥१४१०॥ JainEducation ins onal For Private & Personal Use Only SAww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy