SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ।। १४०९ ।। Jain Education onal अत्रैव सप्तमते पञ्चदश कर्मादानान्याह - अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥ ९८ ॥ अमी० । अमी अतिचारा भोजनंतस्त्याज्याः । तथा कर्माश्रित्य खरं कठोरं प्राणिबाधकं यत् कर्म कोट्टपालादि तत्त्याज्यम् । अत्र पञ्चदशातिचारान् कर्मणां पापप्रकृतीनाम् आदानानि कारणानि त्यजेत् ॥ ९८ ॥ अथ पञ्चदशकर्मणां नामान्याह अङ्गार-वन शकट-भाटक-स्फोटजीविकाः । दन्त - लाक्षा-रस- केश - विषवाणिज्यकानि च ।। ९९ ।। यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०० ॥ अङ्गार० । कर्मेति सर्वत्र योज्यम् । स्पष्टः ॥ ९९ ॥ स्पष्टः १०० ॥ तत्राङ्गारजीविकामाह अङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टका पाकाविति ह्यङ्गारजीविका ।। १०१ ।। अङ्गा० । काष्ठदाहेनाङ्गारनिप्पादनम्, भ्राष्ट्रस्य चनकादिभर्जनस्थानस्य करणम्, , तेनाजीविका। कुम्भकारिता कुम्भकरण For Private & Personal Use Only aadia 5 10 ।। १४०९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy