SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ॥। १४०७ ॥ Jain Education 9888888eee अथ तदतिचारप्रकारमाह बन्धनाद् भावतो गर्भायोजनाद् दानतस्तथा । प्रतिपन्नव्रतस्यैष पञ्चधापि न युज्यते ॥ ९५ ॥ बन्ध० । कृतधनधान्यपरिमाणस्य लभ्यं धनादि कोऽपि दत्ते, स च व्रतभङ्गभयात् चातुर्मास्यादिपश्तो गृहस्थितधान्यादि विक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनाद् नियन्त्रणात् सत्यंकारदानरूपाद् वा स्वीकृत्य तद्गृह एवं स्थापयतोऽतिचारः १ । नियमितस्थालादिकुप्यस्य भावतो द्वयोर्द्वयोर्मीलने एकीकरणरूपात् पर्यायान्तरात् स्वाभाविकसङ्ख्याबाधनात् सङ्ख्यामात्रपूरणाच्चातिचारः । अथवा भावतोऽर्थित्वलक्षणाद् विवक्षितकालावधेः परतो ग्रहीष्यामि, नाऽन्यस्मै देयम् इति व्यवस्थापयतोऽतिचारः २ । गवादेः संवत्सरादिमध्ये प्रसवेऽधिकगवादिभयात् कियत्यपि काले गते गर्भतो गर्भग्रहणात् ३ । द्वयादीनां क्षेत्र - गृहाणां योजनेन एकीकरणेन ४ । तुष्टराजादेः सकाशाल्लब्धं सुवर्णादि परस्मै दत्ते, पूर्णेऽवधौ ग्रहीष्ये इत्यभिप्रायेण ५ । एष प्रतिपन्नपरिग्रहपरिमाणत्रतस्य सङ्ख्यातिक्रमः कर्तु न युज्यते ॥ ९५ ॥ अथ षष्ठतातिचा नाह tional स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्व पश्चेति स्मृता दिग्विर तिव्रते ।। ९६ ।। 1" स्मृत्यन्तरपरिकल्पन १ मूर्ध्वाधस्तिर्यग्व्यतिक्रमाः प्रोक्ताः ४ । क्षेत्रविवृद्धि: ५ प्राशैरतिचाराः पञ्च दिग्विरतेः ॥ ७८ ॥ " For Private & Personal Use Only इति अमितगतिविरचिते श्रावकाचारे । www~~~~~~ aleeeeeeeeeeeeel 10 ।। १४०७ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy