SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १४०६ ॥ इत्वरा ० । इत्वरी वेश्या, सा चासौ किञ्चित्कालं भाटीप्रदानेन संगृहीता, पुंवद्भावः, इत्वरात्ता, तस्या गमः सेवा १ | अनाता अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वा अनाथा वा, तस्या गतिरासेवनम् २ । स्वापत्येभ्योऽन्येषां विवाहनम् ३ । मद० कामस्य तीव्राध्यवसायेन योषामुख - कक्षोपस्थान्तरेषु प्रजननं प्रक्षिप्य बहुवेलां निश्चल आस्ते, मुहुर्वा योषामारोहति वा ४ । अनं० पुंसः पुं- नपुंसक -स्त्रीसेवनेच्छया हस्तकर्मणा स्त्रीकेश - कुचाद्याकर्षणेन वेदोदयात् तथा क्रीडति यथा तीरागः स्यात् ५ । एते ब्रह्मतातिचाराः ॥ ९३ ॥ अथ पञ्चमत्रतातिचारानाह धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च सङ्ख्यातिक्रमोऽत्र परिग्रहे ॥ ९४ ॥ धन० । धनं गणिमादिलक्षणं जातिफल- पूगीफलादि वस्तु, धान्यं व्रीह्मादि १, कुप्यं स्वर्ण-रूप्यव्यतिरिक्तं कांस्य- लोह - ताम्रसीसकादिसर्वधातु वंश काष्ठ- मृद्भाण्ड शकटाद्युपकरणद्रव्यं सर्वं कुप्यम् २ | गौरनड्वाननड्वाही वा आदेर्द्विपद-चतुष्पदवर्गस्य ३ । क्षेत्रं शस्योत्पत्तिभूमिः, वास्तु गृहादि ग्रामनगरादि च ४ । हिरण्यं रूप्यम्, सुवर्णस्य च ५ । अत्र श्रावकधर्मोचिते अपरिग्रहव्रते सङ्ख्यातिक्रमः सोऽतिचारः ॥ ९४ ॥ Jain Educationational 1 " क्षेत्र वास्तु धन-धान्य- हिरण्य-स्वर्ण-कर्म कर - कुप्यकसंख्याः । योsतिलङ्घति परिग्रहलोभस्तस्य पञ्चकमवाचि मलानाम् || ७|७ ||” For Private & Personal Use Only इति अमितगतिविरचिते श्रावकाचारे । deledeeoceedeeeek अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः 10 ।। १४०६ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy