SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ।। १४०५ ।। Jain Education अथ तृतीयत्रताविचारानाह स्तेनानुज्ञा १ तदानीतादानं २ द्विड्राज्यलङ्घनम् ३ । प्रतिरूपक्रिया ४ मानान्यत्वं ५ चास्तेयसंश्रिताः ।। ९२ ।। स्तेना० । स्तेनानुज्ञा हरत यूयमित्यादि प्रेरणम् । यद्वा स्तेनोपकरणानां कुश्यादीनामर्पणं विक्रयणं वा स्तेनानुज्ञा १ । तदा० चौरानीतवस्तुनो ग्रहणं मूल्येन मुधिकया बा २ । द्वि० द्विषोर्विरुद्धयो राज्ञेोर्यद् राज्यं नियमिता भूमिः कटकं वा तस्य व्यवस्थातिक्रमः ३ । प्रतिरूपेण सदृशेन मूत्रादिना तैलादेः किया व्यवहारः ४ । मानानां सेतिकादीनाम् अन्यत्वं न्यूनाधिकत्वम् ५, एते पञ्चा तिचारा अदत्तसम्बन्धिनः ॥ ९२ ॥ अथ चतुर्थत्रता तिचारानाह - ईत्वरात्तागमनात्तागतिरन्यविवाहनम् । मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ९३ ॥ 1 " व्यवहारः कृत्रिमकः १ स्तेननियोग २ स्तदाहृतादानम् ३ ते मानवैपरीत्यं ४ विरुद्धराज्यव्यतिक्रमणम् ।। ७५ ।। " इति अमितगतिविरचिते श्रावकाचारे । 2 " आत्ता - sनुपात्तेत्वरिकाङ्गसङ्गा १-२ वनङ्गसङ्गो ३ मदनातिसङ्गः ४ ॥ परोपयामस्थ विधानमेते पञ्श्चातिचारा गदिताश्चतुर्थे ॥ ७६ ॥ " For Private & Personal Use Only इति अमितगतिविरचिते श्रावकाचारे । 10 ॥। १४०५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy