________________
॥१४०३॥
दानं० । चतुर्विधाहारस्य पात्राणामाच्छादनस्य वस्त्र-कम्बलादेः सद्मनो बसतेः, उपलक्षणात् पीठ-फलकादेच, अतिथिभ्यः साधुभ्यो यद्दानं तदतिथिसंविभागवतम् ॥ ८७ ॥
MHERORSHINICHICHCHCHEMEHEREHEHRSHHHHHHHHHHHHEI
अथ दृष्टान्तमाह
पश्य संगमको नाम सम्पदं वत्सपालकः ।
चमत्कारकरी पाप मुनिदानप्रभावतः ।। ८८ ॥ पश्य० । पश्येति मुग्धानामभिमुखीकरणे, संगमको नाम वसपालकः मुनिदानप्रभावाच्चमत्कारकरी सम्पदं प्राप ॥८८ ।। उक्तानि द्वादश व्रतानि | अथ प्रत्येक तेषामतिचारानाह
व्रतानि सातिचाराणि सुकृताय भवन्ति न ।
अतिचारास्ततो हेयाः पञ्च पश्च व्रते व्रते ॥ ८९॥ बता० । अतिचारो मालिन्यम् तेन सहितानि व्रतानि सुकृताय न भवन्ति । ततो व्रते व्रते पञ्च पञ्च अतिचारा हेयाः परिहार्याः ॥ ८९ ॥ 1 “व्रतानि पुण्याय भवन्ति जन्तोर्न सातिचाराणि निषेवितानि ||....७।१।।
मत्वेति सद्भिः परिवर्जनीयाः व्रते व्रते ते खलु पञ्च पञ्च ॥....७॥२॥” इति अमितगतिविरचिते श्रावकाचारे।
MOHIBITEHRISHCHANDICHRISTMERICHEIGHCHHETRIES
॥ १४०३ ॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org