SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥१४०२॥ CHCHCHCHCHCICICICHRISHCHICHRISHCHEHEREHEREMIEREMIERREET अवचूर्णिसहिते योगशास्त्र स्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः . दिग् । षष्ठे दिग्वते यत् परिमाणं दिशां तस्य पुनः संक्षेपणं दिने रात्रौ च, उपलक्षणात् प्रहरादौ वा । देशे दिगवतगृहीतपरिमाणस्य विभागेऽवकाशो देशावकाशिकं व्रतम् , दिनगहीतानां यत् संक्षेपणं तदपि देशावकाशिकमुच्यते ॥ ८४ ।। अथ तृतीयं शिक्षाव्रतमाह चतुष्पा चतुर्थादि कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् ॥ ८५ ॥ चतु०। चतुर्णा पर्वाणां समाहारश्चतुःप: । पर्वशब्दोऽकारान्तोऽप्यस्ति । चतुर्दश्यष्टमी-पूर्णिमा-ऽमावास्यारूपायां चतुर्थादि तपः१। कुव्यापारस्य सावधव्यापारस्य निषेधः २ । ब्रह्मचर्य क्रिया ३ । स्नानादिशरीरसत्कारस्य त्यागः ४ । इति चतुर्धा पौषधव्रतम् । पौष पुष्टिं धर्मस्य धत्ते इति पौषधः ॥ ८५ ॥ गृहिणोऽपि हि धन्यास्ते पुण्यं ये पौषधं व्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता ॥ ८६ ॥ गृहिः । ते गहिणोऽपि धन्या ये पुण्यं पवित्रं पौषधव्रतं पालयन्ति यथा वाणारसीवासी श्रीवीरोपासकः ॥ ८६ ॥ अथ चतुर्थ शिक्षाव्रतमाह दानं चतुर्विधाहार-पात्रा-ऽऽच्छादन-समनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ॥ ८७ ॥ onal NeHBHISHIRIDICINEHEMORRIERRIEREMICHCHEREMEMOVEIDEOS १४०२॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy