________________
॥। १४०१ ।।
Jain Education
अथ शिक्षाव्रतान्याह -
त्यक्तार्त्त - रौद्रध्यानस्य त्यक्तसावद्यकर्मणः ।
मुहूर्तं समता या तां विदुः सामायिकत्रतम् ॥ ८२ ॥
त्यक्तः । मनोवाक्कायैस्त्यक्तार्त्त-रौद्रध्यानस्य वाचा कायेन च त्यक्तसावद्यकर्मणो वा रागद्वेषाभावेन समतावस्था तत् सामायिकं विदुः । यतः समस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादिलाभस्तदेव सामायिकम्, विनयादित्वादिकणि निरुक्तिः ॥ ८२ ॥
अथ दृष्टान्तमाह
tional
सामायिकत्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव क्षीयते कर्म संचितम् || ८३ ॥
सामा० । सामायिकव्रतस्थस्य गृहिणोऽपि चन्द्रावतंसकराजस्येव दीपप्रज्वलनावधिकृत कायोत्सर्गाभिग्रहस्य सामायिकत्रते बपि कर्म क्षीयते महानिर्जरा भवतीत्यर्थः ॥ ८३ ॥
अथ द्वितीयं शिक्षाव्रतमाह
दिग्वते परिमाणं यत्तस्य संक्षेपणं पुनः
दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ८४ ॥ [ दशमं व्रतम् ]
1 " त्यक्तार्तरौद्रयोगो भक्त्या विदधाति निर्मलध्यानः । सामायिकं महात्मा सामायिकसंयतो जीवः ॥ ६६८६ ॥ "
इति अमितगतिविरचिते श्रावकाचारे ।
For Private & Personal Use Only
10
।। २४०१ ।।
www.jainelibrary.org