________________
परिशिष्टम्
॥१४००॥
कुतू । कुतूहलग्रहणात् जिनयात्रादौ तथा न दोषः। कामशास्त्रस्य प्रसक्तिः पुनः पुनः परिशीलनम् । द्यूत० आदिशब्दात् आखेटकादि ॥ ७८ ॥
जलक्रीडा-ऽन्दोलनादिविनोदो जन्तुयोधनम् ।
रिपोः सुतादिना वैरं भक्त-स्त्री-देश-राटकथाः ॥ ७९ ॥ जल० । अन्दोलनम् । आदिशब्दात् पुष्पावचयादि । जन्तूनां कुर्कुटादीनां योधनम् परस्पराभ्याघातनम् । रिपोः शत्रोः । येन केनचिदायातं वैरं तद्यदि त्यक्तुं न शक्नोति तदापि तस्य पुत्रपौत्रादिना वैरं प्रमादाचारणम् , भक्तादिकथाश्च ॥ ७९ ॥
रोग-मार्गश्रमो मुक्त्वा स्वापश्च सकलां निशाम् ॥
एवमादि परिहरेत् प्रमादाचरणं सुधीः ।। ८० ॥ रोग । एवमादि प्रमादाचरणं सुधीः श्रमणोपासकः परिहरेत् । शेषं स्पष्टम् ॥ ८०॥
अवचूर्णिसहिते योगशास्त्र स्थाद्य. प्रकाशचतुष्टये तृतीयः प्रकाशः
GREHHEREHEREHENGLISHCHHORTCHEHEKHEHREMICHROOK
॥१४००॥
विलास-हास-निष्ठयूत-निद्रा-कलह-दुष्कथाः ।
जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ८१ ॥ विला। बिलासं कामचेष्टाम् , हासं हसनम् , निष्ठयूतं निष्ठीवनम् निद्रां कलहं कामचौर्यादिदुष्कथाश्च जिनेन्द्रभवनस्य | मध्ये चतुर्विधमाहारं च वर्जयेत् ।। ८१ ॥
Jain Education
www.jainelibrary.org
-
22 Jonal
For Private & Personal Use Only