________________
।। १३९९ ।।
Jain Education
वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं मुहूर्तात् परतः त्यजेत् ॥ ७५ ॥
वैरि० । वैरिघात पुरषाता ऽग्निदीपनादिरूपं रौद्रध्यानमपध्यानं नरेन्द्रत्व- खेचरत्वाप्सरापरीभोगाद्यार्तध्यानम् । तस्य तत्परिमाणरूपं व्रतम् । मुहूर्त्तात् परतस्त्यजेत् ॥ ७५ ॥
tional
कृप षण्ढ्य वाजिनः ।
वृषभान् दमय दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥
वृष० । वत्सतरान् दमय, वाजिनोऽश्वान् षण्ढय वर्धितकान् कुरु, दाक्षिण्याभावेऽयं पापोपदेशे न कल्पते ॥ ७६ ॥
यन्त्र - लाङ्गल-शस्त्राऽग्नि-मुशलो दूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत् करुणापरः ।। ७७ ।।
यन्त्र० । यन्त्रं शकटादि, लाङ्गलं हलम्, शस्त्रं खङ्गादि, अग्निर्वहि:, आदिशब्दात् धनुर्भस्त्रादिवस्तु, करुणापरः श्राद्धो नार्पयेत् ॥ ७७ ॥
कुतूहलाद् गीत-नृत्त - नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ ७८ ॥
For Private & Personal Use Only
5
10
॥। १३९९ ।।
www.jainelibrary.org