SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः সাহা: जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥ ७२ ॥ जन्तु । जन्तुभिर्मिश्रं मधुक-बिल्वादेः फलं, अरणि-शिषु-मधुकादेः पुष्पम् , प्रावृषि तन्दुलीयादेः पत्रम् , अन्यदपि मूलादि, आम्रफलादेः सन्धानमपि यदि संसक्तं जीवमिदं स्यात्तदा जिनधर्मपरः कृपालुस्तान् त्यजेत् ॥ ७२ ॥ अथ तृतीयं गुणव्रतमाह आर्तरौद्रमपध्यानं १ पापकर्मोपदेशिता २। हिंसोपकारिदानं च ३ प्रमादाचरणं ४ तथा ॥ ७३ ॥ आत । आर्तरौद्ररूपं अपकृष्टं जघन्यं ध्यानम् १ । गीतादि प्रमादाचरणम् ४ । स्पष्टम् ।। ७३ ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ॥ ७४ ॥ शरी०। शरीरादिनिमित्तं यः प्राणिनां दण्डो विनाशः सोऽर्थाय । तत्पतिः एतद्विपरीतोऽनर्थदण्डः निष्प्रयोजनो दण्ड इत्यर्थः ॥ ७४ ।। 1 “पश्चानी दुष्टध्यानं पापोपदेशनासक्तिः। हिंसोपकारि दानं प्रमादचरणं श्रुतिर्दुष्टा ।। ६।८१॥" इति अमितगतिविरचिते श्रावकाचारे ॥ ॥१३९८॥ 10 JainEducation InL nal For Pritate & Personal use only 4ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy