________________
॥ १३९७ ॥
Jain Education
करोति विरतिं धन्यो यः सदा निशि भोजनात् । सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः ।। ६९ ।।
करो०] । यः सदा निशि भोजनाद्विरतिं करोति स पुरुषायुषस्यार्द्ध पञ्चाशद्वर्षाणि उपोषितः कृतोपवासः स्यात् ॥ ६९ ॥ रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञाते कश्चिदपरो वक्तुमीश्वरः ॥ ७० ॥
रज॰ । रात्रिभोजनत्यागे ये गुणास्तान् सर्वज्ञं बिना को वक्तुं समर्थः ? ॥ ७० ॥
ational
अथ आमगोरस संपृक्तद्विदलादिदोषमाह
आमगोरस संपृक्तद्विदलादिषु जन्तवः ।
दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥ ७१ ॥
आ० । अपक्कगोरस मिश्रद्विदले आदिशब्दात् पुष्पितौदने दिनद्वयातीते दध्नि कुथितान्ने च केवलिभिः सूक्ष्मा जन्तवो दृष्टास्तस्मात्तानि विवर्जयेत् ॥ ७१ ॥
1 " यो विमुच्य निशि भोजनं त्रिधा सर्वदापि विदधाति वासरे । तस्य याति जननार्धमञ्चितं भुक्तिवर्जितमपास्त रेपसः ||५||४९ ॥ रात्रिभोजनविमोचिनो 'गुणा ये भवन्ति भवभागिनां परे । तानपास्य जिननाथमीशते वक्तुमत्र न परे जगत्त्रये ॥ ५६७ ॥" इति अमितगतिविरचिते श्रावकाचारे ।
For Private & Personal Use Only
Belalak
aadiadaGE
10
।। १३९७ ॥
www.jainelibrary.org