SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ॥ १३९५ ॥ Jain Education ahaalak अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजन दोषज्ञोऽश्नात्यसौ पुण्यभाजनम् || ६३ ॥ अहो | अहो मुखे सूर्योदयेऽवसाने सन्धायां च द्वे द्वे घटिके त्यजन् योऽश्नाति भुङ्क्ते, अत एवागमे सर्वजघन्यं प्रत्यात्यानं मुहूर्त्तमानं नमस्कारसहितमुक्तम्, ततोऽर्तमुहूर्तादर्वाक् कः श्राद्धो भुङ्क्ते ॥ ६३ ॥ अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं वृद्धिर्भाषितं विना ॥ ६४ ॥ अकृत्वा । दोषा रात्रिस्तस्यां भोजनान्नियममकृत्वा दिनभोज्यपि नरः दिनभोजनफलं न भजेत् निर्व्याजं निश्छद्मम् । यतो लोकेऽपि कलान्तरं फलं भाषितं विना न स्यात् ॥ ६३ ॥ tional ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ।। ६५ ॥ ये वा० । वासरं दिनं परित्यज्य निशायामेव ये भुञ्जते । शेषं स्पष्टम् ॥ ६५ ॥ 1 " यो निवृत्तिमविधाय वल्भनं वासरेषु वितनोति मूढधीः । तस्य किञ्चन न विद्यते फलं भाषितं न विना कलान्तरम् ||५|५० ॥ ये व्यवस्थितमःसु सर्वदा शर्वरीषु रचयन्ति भोजनम्। निम्नगामि सलिलं निसर्गतस्ते नयन्ति शिखरेषु शाखिनाम् ।। ५।५१ ।। " इति अमितगतिविरचिते श्रावकाचारे । For Private & Personal Use Only 5 10 ।। १३९५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy