SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १३९२ ।। Jain Education तद्यथा " त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५ ॥ त्रयी० । त्रयी ऋग्यजुः सामरूपा वेदत्रयी, तस्यास्तेजः प्रकृतं यस्मिन्नसौ त्रयीतेजोमयो भानुः 'सूर्यः त्रयीतनुः' इति सूर्यस्य नाम इति वेदविदो जानन्ति ततस्तत्करैः पूतं पवित्रं सदखिलं जगत् शुभं कर्म समाचरेत् तदभावे शुभं कर्म न कुर्यात् ॥५५॥ 5 एतदेवाह tional नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ ५६ ॥ नैवा० । आहुतिरग्निसमिदाद्याधानम्, स्नानमङ्गक्षालनम्, श्राद्धं पितृकर्म, देवपूजा, दानं वा, रात्रौ न विहितं नाचीर्णमिति सर्वत्र योज्यम्, भोजनं तु विशेषतो नोक्तम् ॥ ५६ ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तद्धि विजानीयान नक्तं निशि भोजनम् ॥ ५७ ॥ " [ दिव० । दिवसस्य अष्टमे ० पाश्चात्यचतुर्घटिके यद् भोजनं तन्नक्तमिति जानीयात्, न तु निशि भोजनं नक्कमिति ॥ ५७ ॥ For Private & Personal Use Only अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३९२ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy