SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ।। १३९१ ॥ Jain Education Balatak कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥ ५१ ॥ कण्ट० । व्यञ्जनं शाकादि, तन्मध्ये पतितो वृश्चिकस्तालु विध्यति ।। ५१ ।। विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ ५२ ॥ [ त्रिभिर्विशेषकम् ] ional विल० । स्पष्टः । सर्वेषां मिथ्यादृशामप्येते दृष्टा दोषाः ॥ ५२ ॥ नाप्रेक्ष्यसूक्ष्मजन्तृनि निश्यद्यात् प्रासुकान्यपि । अयुद्यत्केवलज्ञानैर्नादृतं यन्निशाशनम् ।। ५३ ।। ना० । अप्रेक्ष्याः प्रेक्षितुं द्रष्टुमशक्याः सूक्ष्माः कुन्थु-पनकादयो जन्तवो यत्र तानि प्रासुकानि अचित्तान्यपि मोदकादीनि निशि सुधीर्नाद्यात् भक्षयेत्, अपेस्तदानीमपक्कान्यपि फलादीनि । यत उत्पन्न केवलैरपि जिनैर्निशाभोजनं नादृतम् निषिद्धमिति 10 हेतोः ॥ ५३ ॥ धर्मवित्रैव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥ ५४ ॥ धर्म० । श्रुतधर्मवेदी कदाचन निशि न भुञ्जीत । यतो बाह्या जिनशासनबहिर्भूता लौकिका अपि निशाभोजनम् अभोज्यं भोक्तुमयोभ्यं प्रचक्षते वदन्ति ॥ ५४ ॥ For Private & Personal Use Only eeeeeeee ।। १३९१ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy