________________
षष्ठं परिशिष्टम् -
॥ १३९० ॥
Jain Education I
"
स्वयं ० । स्वयं परेण वा ज्ञातमेव फलं विशारदोऽद्यात् भक्षयेत् न त्वज्ञातम् । यतोऽस्य अज्ञातफललक्षणे निषिद्धफले विषफले वा प्रवर्त्तनं मा भूदिति हेतोः । क्रमेण व्रतभङ्ग-मरणादिदोषोत्पत्तेः ।। ४७ ।।
अथ निशाभोजनदोषमाह -
अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः ।
उच्छिष्टं क्रियते यत्र तत्र नाद्याद्दिनात्यये ॥ ४८ ॥
1
अन्नं । प्रेता अधमा व्यन्तराः पिशाचा व्यन्तरा एव, आयग्रहणाद्राक्षसादिभिर्यत्र अन्नमुच्छिष्टं क्रियते तत्र दिनात्यये रात्रौ नाद्यात् न भुञ्जीत ॥ ४८ ॥
nal
घोरान्धकाररुद्राक्षैः पतन्तो यत्र जन्तवः ।
नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ ४९ ॥
घोरान्ध० | प्रबलतमोरुद्धनेत्रैः घृतादौ पतन्तो जन्तवो यत्र न निरीक्ष्यन्ते तत्र निशि कः सुधीर्भुञ्जीत ? न कोऽपीत्यर्थः ॥४९॥ मेधां पिपीलिका हन्ति यूका कुर्याअलोदरम् ।
कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥ ५० ॥
मेधां । बुद्धिं पिपीलिका कीटिका । वान्तिं वमनं मक्षिका । कोलिको मर्कटकः । शेषं स्पष्टम् ॥ ५० ॥
1 " यत्र राक्षस-पिशाचसञ्चरो यत्र जन्तुनिवहो न दृश्यते ।। तत्र दोषनिलये दिनात्यये धर्मकर्मकुशला न भुञ्जते ॥ ५४२ ॥”
For Private & Personal Use Only
५/४० ॥
इति अमितगतिविरचिते श्रावकाचारे ॥
अवचूर्णि
सहिते योगशास्त्र
स्थाद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३९० ॥
10
www.jainelibrary.org