________________
।। १३८९ ।।
Jain Education
आर्द्र: ० | आर्द्रः शुष्कः समग्रोऽपि कन्दो भूमध्यगो वृक्षावयवः । सर्वे कन्दाः । किशलय: पत्रात् पूर्वं बीजस्योच्छ्वसनावस्था - रूपः सर्वोऽपि न कश्चिदेव । स्नुही बज्रतरुः । लवणनाम्नो वृक्षस्य त्वगेव, न त्वन्येऽवयवाः । कुमारी प्रसिद्धा । गिरि० वल्लीविशेषः ॥ ४४ ॥
शतावरी विरूढानि गहूची कोमलाम्लिका | पल्यको मृतवल्ली चलः सूकरसंज्ञितः ।। ४५ ।।
शता० । शतावरी गडूची अमृतवल्ली च वल्लीभेदाः । विरूढानि अङ्कुरितद्विदलधान्यानि । पल्यङ्कः शाकभेदः । सूकरसंज्ञया बल्लः सूकरवल्लो न तु धान्यवल्लः ॥ ४५ ॥
tional
अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः ।
मिध्यादृशामविज्ञाता वर्जनीया प्रयत्नतः ॥ ४६ ॥ [ त्रिभिर्विशेषकम् ]
अनं । सूत्रं जीवाभिगमस्तत्रोक्ता अपरेऽपि कृपापरैः वर्जनीयाः, मिथ्या० मिथ्यादृशो हि वनस्पतीन् जीवत्वेनापि न मन्यन्ते कुतोऽनन्तकायान् ॥ ४६ ॥
स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः ।
निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥ ४७ ॥
For Private & Personal Use Only
5
10
॥ १३८९ ॥
www.jainelibrary.org