________________
अवचूर्णि
परिशिष्टम्
सहिते योगशास्त्रस्याद्यप्रकाश
॥१३८८ ॥
चतुष्टये
अथ उदुम्बरपञ्चकदोषमाह
उदुम्बर १ वट २ प्लक्ष ३ काकोदुम्बरशाखिनाम् ४ ।
पिप्पलस्य ५ च नाश्नीयात् ६ फलं कृमिकुलाकुलम् ॥ ४२ ॥ उदम्ब० । एतेषां वृक्षाणां पिप्पलस्य च फलं कृमयः सूक्ष्मजीवगणास्तैराकुलं व्याप्तम् । एकस्मिन्नपि फले तावन्तः कृमयः al स्युर्ये सङ्ख्यातमपि न शक्यन्ते ॥ ४२ ॥ .
अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया ।
न भक्षयति पुण्यात्मा पश्चोदुम्बरजं फलम् ॥ ४३ ॥ अमा० । बुभुक्षया क्षामः कृशोऽपि, अपिरत्रापि योज्यः, अन्यभक्ष्यमप्राप्नुवन्नपि यः पश्चोदुम्बरजं फलं न भक्षयति असौ पवित्रात्मा नरः ॥ ४३ ॥ अनन्तकायदोषमाह
आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च ।
स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ 1 “यत्र सूक्ष्मतनवस्तनूभृतः संभवन्ति विविधाः सहस्रशः। पञ्चधा फलमुदुम्बरोद्भवं तन्न भक्षयति शुद्धमानसः ॥ ५/६८ ॥” इति अमितगतिविरचिते श्रावकाचारे ॥
RRENCHEHEKHERISHCHEERIESCRBEIGHEHREHEHEYE
तृतीयः प्रकाशः
॥१३८८॥ 10
Jain Education
For Private & Personal Use Only
Slww.jainelibrary.org