SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३८६ ॥ Jain Education एक० । एकस्यापि हि जीवस्य हिंसायां किं वक्तुमशक्यं अर्ध पापं भवेत् । शेष स्पष्टम् ॥ ३५ ॥ अथ मधुदोषमाह - अनेकजन्तु संघात निघातन समुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकं ॥ ३६ ॥ अने० । अनेकजन्तुसंघातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य, जुगु० कुत्सनीयं लालामिव मधु || ३६ || भक्षयन् माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः सौनिकेभ्यो ऽतिरिच्यते ॥ ३७ ॥ भक्ष० । क्षुद्रा लघवो ये जन्तवस्तेषां लक्षम्, लक्षग्रहणं बहुत्वोपलक्षणार्थम् । सौनिकेभ्यः खट्टिकेभ्यः अति० अधिकीभवति ॥ ३७ ॥ एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥ ३८ ॥ haaro | एकैकस्य कुसुमस्य यः क्रोडो मध्यं तस्मात् रसं मकरन्दमापीय पीत्वा यद्वमति तदुच्छिष्टं मधु धार्मिका न अश्नन्ति ॥ ३८ ॥ anal 1 " माक्षिकं विविधजन्तुघातजं खादयन्ति बहुदुःखकारि ये स्वल्पजन्तुविनिपातिभिः समास्ते भवन्ति कथमत्र खट्टिकैः ।। ५।२७ ।। इति अमितगतिविरचिते श्रावकाचारे । " For Private & Personal Use Only concen Teeeler अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३८६ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy