________________
अवचूर्णि
षष्ठं परिशिष्टम्
न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया।
पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि ॥ २९ ॥ न ध० । निर्दयस्य धर्मो न भवति । पलादस्य मांसभक्षकस्य कुतो दया ? मांसलुब्धस्तत् पूर्वोक्तं निर्दयत्वादि न वेत्ति । कदाचिद्विद्याज्जानीयात् तथापि मांस निषेधादि नोपदिशेत् परेभ्यः ॥ २९ ॥
केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् ।
देव-पित्र-तिथिभ्योऽपि कल्पयन्ति यदृचिरे ।। ३० ॥ केचि० । केचित् कुशास्त्रविप्रलब्धाः परं केवलं स्वयं नाश्नन्ति, किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति । यद्यस्मात् तद्धर्मशास्त्रकारा एवमूचिरे ॥ ३० ॥
"क्रीत्वा स्वयं वाप्युत्पाद्य परोपहतमेव वा।
देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दूष्यति ॥ ३१ ॥ [ मनुस्मृतौ ५।३२] क्रीत्वा० । क्रीत्वा स्वयं व्याधादिभ्यः । स्वयं वा उत्पाद्य मृगयादिना । परो० अन्यढौकितं वा। शेषं स्पष्टम् ॥ ३१ ॥
मन्त्रसंस्कृतमप्यद्यात् यवाल्पमपि नो पलम् ।
भवेज्जीवित नाशाय हालाहललवोऽपि हि ॥ ३२ ॥ मन्त्र० । मन्त्रयुतमपि यवतुल्यप्रमाणमपि । शेषं स्पष्टम् ॥ ३२ ॥
१३८४॥
सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः সন্ধাহা:
KBHBHISHEIGHBHBHISHEKSHORSHSHISHEHIMSHEHERCISES
॥१३८४॥
Jain Education
For Private & Personal Use Only
Alww.jainelibrary.org