________________
॥ १३८३ ॥
Jain Education
मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याध - गृध-वृक-व्याघ्र-शृगालास्तैर्गुरुकृताः || २५ ||
मांसा | मांसभक्षणे दोषो नास्तीति यैरुच्यते दुष्टस्वभावैः । व्याधा [ लुब्धकाः, गृधाः हिंस्राः पक्षिविशेषाः, ] वृकोsरण्यश्वा । गुरू० उपदेशकाः कृताः । न हि व्याधादीन् विना कश्चिदेवं शिक्षयति । शेषं स्पष्टम् ॥ २५ ॥ " मांस भक्षयिताऽमुत्र यस्य मांसमिहाद्यहम् |
एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥ २६ ॥ " [ मनुस्मृतौ ५/५५ ] मां स० । स जन्तुः परलोके मां भक्षयिता यस्य मांसमहम् इहलोकेऽद्मि । एतन्मांसस्य मांसशब्दत्वे निरुक्तं निर्वचनं शब्दसिद्धिं मनुरब्रवीत् ॥ २६ ॥
मांसा० । यथा दुर्बुद्धेः हन्तुं मतिः प्रवर्त्तते ॥
onal
मांसस्वादनलुब्धस्य देहिनं देहिनं प्रति ।
हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः || २७ ॥
शाकिनी यं यं पश्यति नरं स्त्रियमन्यं वा प्राणिनं तं तं हन्तुमिच्छति तथा मांसस्वादनलुब्धस्यापि २७ ॥
ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि ।
सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥
ये भ० । प्रधानभोजनेषु क्षैरेयी- मोदकादिषु सत्स्वपि विद्यमानेष्वपि हलाहलं उग्रविषम् । शेषं स्पष्टम् ॥ २८ ॥
For Private & Personal Use Only
5
10
॥ १३८३ ॥
www.jainelibrary.org.