________________
॥ १३८१॥
अशनीयन् सदा मांसं दयां यो हि चिकीर्षति ।
ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥ अश० । हि स्फुटम् अशनमिवाचरन् मांस यो दयां चिकीर्षति कर्तुमिच्छति । शेषं स्पष्टम् ॥ १९ ॥
हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा ।
क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता । शस्त्रादिना प्राणिनां हन्ता, मांसं विक्रीणीते, संस्कारकर्ता, क्रेता ग्राहकः, अनुमन्ता अनुमोदकः, दाता योऽतिथिभ्यो ददाति, एते सर्वेऽपि घातका एव ज्ञेयाः । यतो मनुनामा ऋषिरपि एवमग्रेतनं श्लोकद्वयं प्राह ॥ २० ॥
"अनुमन्ता विशसिता निहन्ता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ २१॥" [मनुस्मृतौ ५/५१ ] अनु० । अनुमोदकः । विशसिता हतस्याङ्गविभागकारकः । निहन्ता वधकः । क्रेता । संस्कर्ता पावकः । उपहा परिवेषकः । शेषं स्पष्टम् ॥ २१ ॥
1 "मांसभक्षणविषक्तमानसो यः करोति करुणां नरोऽधमः । भूतले कुलिशवह्नितापिते नूनमेव वित्तनोति वल्लरीम् ॥५॥१३॥ है। हन्ति खादति पणायते पलं मन्यते दिशति संस्करोति यः। यान्ति ते षडपि दुर्गतिं स्फुटं न स्थितिः खलु परत्र पापिनाम् ॥५॥१७॥"
इति अमितगतिविरचिते धाबकाचारे॥
॥१३८१ ॥
Jain Education l
o
onal
For Private & Personal Use Only
www.jainelibrary.org