________________
षष्ठं परिशिष्टम्
॥ १३८० ॥
Jain Education
विद० । अङ्ग शरीरविसंस्थुलत्वं विदधती कुर्वाणा, ग्लप० कार्याक्षमाणि कुर्वती । अतुच्छामधिकां मूच्छी चैतन्याभावरूपाम् । अङ्गशैथिल्याद्याः सुरा-विषयोः साधारणा धर्माः, तेन हाला सुरा हालाहलोपमा ज्ञेया ॥ १५ ॥
विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्व तृष्या वह्निकणादिव ॥ १६ ॥
विवे० । विवेको हेयोपादेयज्ञानम्, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचम् आचारशुद्धिः, अनुकम्पादयो गुणा नाशमुपयन्ति तृणानां समूहस्तृण्या, "पाशादेश्व ल्यः" [सिद्धम० ६।२।२५ ] ॥ १६ ॥ दोषाणां कारणं मद्यं मद्यं कारणमापदाम् ।
रोगातुर इवाsपथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥
दोषा । चौर्यादिदोषाणाम् आपदां बधबन्धादीनां कारणं हेतुः तस्मात् रोगातुरो यथा अपथ्यं वर्जयेत् तथा
मद्यमपि ॥ १७ ॥
ional
अथ मांसदोषानाह
चिखादिपति यो मांसं प्राणिप्राणापहारतः ॥
उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ १८ ॥
चिखा० । यो मांसं चिखादिषति खादितुमिच्छति असौ धर्मवृक्षस्य मूलमुन्मूलयति, शेषं स्पष्टम् ॥ १८ ॥
For Private & Personal Use Only
aleeeeeee
aleeeel
अवचूर्णि - सहिते योगशास्त्र
स्याद्यप्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३८० ।।
10
www.jainelibrary.org