SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ॥१३७७॥ सकृ० । सकृदेकवारं यो भुज्यते सः अन्नधान्यमालादिर्भोगः । आदेस्ताम्बूलविलेपनादिः । यः पुनः पुनः पुनर्नोग्यः स उपभोगोऽङ्गनादि । आदिशब्दात् वस्त्रालङ्कारशयनासनादिः । इदं व्रतं भोक्तुं योग्यवस्तुषु परिमाणकरणेन इतरेषु वर्जनेन स्यादिति ॥५॥ श्लोकद्वयेन पूर्व वर्जनीयानाह मद्यं १ मांसं २ नवनीतं ३ मधू ४ दुम्बरपञ्चकम् ५। अनन्तकाय ६ मज्ञातफलं ७ रात्रौ च भोजनम् ८ ॥६॥ आमगोरससम्पृक्तद्विदलं ९ पुष्पितौदनम् १० । दध्यहतियातीतं ११ कुथितान्नं १२ च वर्जयेत् ॥ ७॥ [युग्मम् ] । मद्य० । मद्य काष्ठनिप्पन्नं पिष्टनिष्पन्नं चेति द्विधा १, मांस जलस्थलखचरभेदात् त्रिधा, मांसग्रहणेन चर्म-रुधिर-मेद-मज्जाग्रहः, नवनीतं गोमहिन्यजाविकादिभेदाच्चतुर्धा । माक्षिकं भ्रामरं कौतिकं चेति त्रिधा मधु । शेष स्पष्टम् ॥ ६॥ आम | आमम् अपक्वं यद्गोरसं तेन सम्पृक्तं मिश्रितं द्विदलम् । शेषं स्पष्टम् ॥ ७॥ मंदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥ ८॥ मदि० । वैदग्धी चातुर्य तेन बन्धुरस्य रम्यस्य दक्षस्यापि पुंसो बुद्धिर्दूरतो नश्यति । दक्षस्याऽपि पुंसो दौर्भाग्येण कामिनी यथा दूरतो नश्यति ।। ८ ।। | 1 " मद्यपस्यं धिषणा पलायते दुर्भगस्य वनितेव दूरतः। निंद्यता च लभते महोदयं क्लशितेव गुरुवाक्यमोचिनः ॥५॥२॥" For Private & Personal useony इति अमितगतिविरचिते श्रावकाचारे॥ ॥१३७७ ॥ Jain Education Islonal oww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy