________________
षष्ठं परिशिष्टम् -
।। १३७६ ।।
Jain Education Int
जगदाक्रममाणस्य पसरल्लो भवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥
जग | वारिधिपक्षे जगलोकम्, लोभपक्षे जगत् त्रिभुवनम् आक्र० व्याप्नुवतो लोभसमुद्रस्य तेन स्खलनं निरोधो विदधे येन दिविरतिः कृता प्रतिपन्ना ॥ ३ ॥
अथ द्वितीयं गुणत्रतमाह
J
भोगोपभोगयोः संङ्ख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयीकं गुणवतम् ॥ ४ ॥
भोगो० । यत्र शक्त्या शरीरमानसाबाधया भोगोपभोगयोः सख्या । परिमाणं विधीयते तद् भोगोपभोगमानम् । द्वितीयमेव द्वैतीयकम्, स्वार्थे टीकण, गुणत्रतम् ॥ ४ ॥
सकृदेव भुज्यते यः स भोगोऽन्न - स्रगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥
1 “ भोगोपभोगसङ्ख्या विधीयते येन शक्तितो भक्त्या । भोगोपभोगसङ्ख्या शिक्षाव्रतमुच्यते सद्भिः || ६|९२ ।। ” इति अमितगतिविरचिते श्रावकाचारे ॥
For Private & Personal Use Only
अवचूर्णिसहिते
योगशास्त्र
स्वाद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३७६ ।।
10
www.jainelibrary.org