SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः ॥१३७४॥ तपःश्रुतपरीवारां शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ ११३ ॥ तप० । परिग्रह एव ग्रहः पिशाचस्तेन प्रस्ता योगिनोऽपि रत्नत्रयप्राप्तिवन्तोऽपि शमसाम्राज्यसम्पदं स्वाधीनामपि तपःश्रुतपरिवारयुतां त्यजेयुः ॥ ११३ ॥ असंतोषवतः सौख्यं न शक्रस्य न चक्रिणः। जन्तोः संतोषभाजो यदभयस्येव जायते ॥ ११४ ।। असं० । संतोषरहितस्य शक्रस्य चक्रिणो वा सौख्यं न स्यात् यत् संतोषभाजो जन्तोरभयकुमारस्येव, पित्रोपनीतं राज्यमपि त्यक्त्वा स चारित्रमग्रहीत् सन्तोषात् ।। ११४ ॥ सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किरायन्ते सन्तोषो यस्य भूषणम् ॥ ११५ ।। संनि । तस्य समीपे निधयः, कामधेनुः अनु० अनुचरा, अमराः किरा इवाचरन्ति यस्य सन्तोषो भूषणं स्यात् ॥११५|| BREHEHEHEREHEYENEVEMEHEIRECRURESHEHEHEMESHBHereak प्रकाशः इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे द्वादशप्रकाशे द्वितीय प्रकाशः ॥२॥ 1 " यमप्रशमनं राज्यं तपःश्रुतपरिग्रहम् । योगिनोऽपि विमुञ्चन्ति वित्तवेतालपीडिताः ॥ ८४२॥” इति शानार्णवे ॥ For Private & Personal use only Jain Education Intel zec jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy