SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ॥ १३७३॥ संगा० । संगात् परिग्रहात् असन्तोऽपि रागद्वेषादयो द्विषः भवन्ति । यद् यस्मात् तेन परिग्रहेण अस्थिरीकृतात्मनो मुनेरपि चेतश्चलेत् ॥ १०९॥ __संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुयोदल्पमल्पं परिग्रहम् ॥ ११० ॥ संसार । अल्पमल्पं नियतपरिमाणम् । शेषं स्पष्टम् ।। ११० ॥ मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः संगैरंगीकृतं नरम् ॥ १११॥ मुणं । वनिता एवं व्याधा लुब्धकाः, संगैः परिग्रहेरंगीकृतं वशीकृतं नरम् ॥ १११ ॥ तृप्तो न पुत्रैः सगरः कुचिकर्णो न गोधनैः । न धान्यस्तिलकः श्रेष्ठी न नन्दः कनकोत्करैः ॥ ११२ ॥ तृप्तो । मगधदेशस्थसुघोषग्रामनायको दधिदुग्धादिरसासक्तः कुचिकर्णो नाम बहुतमगोसंग्रह परो दध्यजीर्णेन प्रान्ते गव्याा मत्वा दुर्गतिमाप । अचलपुरवासितिलकश्रेष्ठी सदा धान्यसंग्रहपरो दुर्भिक्षं कदा भावीति नैमित्तिकवचसाऽतिधान्यसंग्रहात कस्यापि पुण्यानुभावेन बहुवृष्टौ हृदयस्फोटेन नरकं प्राप ॥ ११२ ॥ 1“लुप्यते विषयव्यालेभिद्यते मारमार्गणैः। रुध्यते वनिताव्याधैर्नरः सङ्गैस्तरङ्गितः ।। ८३७ ॥” इति ज्ञानार्णवे ॥ CHEHEHEREHEARTERSNEHENERRRRRRRRRENCHAHEERERENCHRICHE ॥ १३७३॥ Jain Education Inte For Private & Personal Use Only FAw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy