SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ।। १३७१ ॥ Jain Education Interna ऐश्व० । ऐश्वर्येण विभवेन राजराजो धनदः, रूपेण कन्दर्पोऽपि नरः स्त्रिया त्याज्यः । सीतयेव रावणः ॥ १०२ ॥ नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥ १०३ ॥ अन्यकान्ता परस्त्री । अन्यकान्तः परपतिः । तत्रासक्तचेतसां स्त्रीणां नराणां च नपुंसकत्वादयो दोषा भवे भवे स्युः ॥ १०३ ॥ प्राणभूतं चरित्रस्य परब्रह्मैकककारणम् । समाचरन् ब्रह्मचर्यं पूजितैरपि पूज्यते ॥ १०४ ॥ प्राण० | चारित्रस्य देशचारित्रस्य सर्वचारित्रस्य वा प्राणप्रायं परब्रह्मणो मोक्षस्य एकमद्वितीयं कारणं ब्रह्मचर्यं समाचरन् पालयन् पूजितैः सुरनरेन्द्रैरपि पूज्यते ॥ १०४ ॥ चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ॥ चिरा० । ब्रह्मचर्यत एवंविधा नरा स्युरित्यादि स्पष्टम् ॥ १०५ ॥ अथ पश्चममणुत्रतमाह असंतोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणं ॥ १०६ ॥ For Private & Personal Use Only Bleelaaeedees888888888888eet 10 ॥ १३७१ ।। inelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy