SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ अवचूर्णि परिशिष्टम् ॥१३७०॥ अत्र दृष्टान्तमाह विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं पाप नरकं दशकन्धरः ।। ९९ ॥ विक्र० । विक्रमेण पराक्रमेण आक्रान्तं व्याप्तं विश्वं येन स दशकन्धरो रावणश्च परस्त्रीषु रिरंसया रमणेच्छामात्रेणापि कुलक्षयं कृत्वा नरकं प्राप ॥ ९९ ॥ लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात् परस्त्रियम् ॥ १० ॥ लाव । लावण्यं स्पहणीयता, तेन पवित्रा अवयवा यस्यास्ताम् । एवावधामपि परस्त्रियं जह्यात् त्यजेत् ॥ १० ॥ अकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ॥ १०१॥ अक० । परस्त्रीसंयोगेऽपि अकलङ्कमनोवृत्तेनिश्चलमनसः सुदर्शनश्रेष्ठिनः किं वमः ? कां स्तुतिं कुर्मः ! वचन विषयातीतत्वात् का स्तुतिरित्यर्थः । शोभना दर्शनसमुन्नतिर्यस्मात् , दर्शनप्रभावकस्येत्यर्थः ॥१०१॥ ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव त्याज्यो नायो नरः परः ॥ १०२ ।। l For Private & Personal Use Only सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥१३७०॥ Jain Education a क w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy