________________
॥ १३६९ ॥
BIRHEIGENERGREEMEHCHCHCHICHISHEHHHHHHHHHHHHCHE
भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् ।
रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥ ९५ ॥ भीरोः । पति-राजादिभीतस्य तथा ' अनेन दृष्टोऽनेन ज्ञातः' इत्याद्या कुलचित्तस्य खण्डदेवकुलादौ शय्यासनादिरहितत्वादिना दुःस्थितस्य जनस्य परस्त्रियां रतिर्न युज्यते, शूनाया वधस्थानस्य समीपम् उपशूनम् तत्र यथा पशो रतिर्न युज्यते ॥९५॥
प्राणसन्देहजननं परमं वैरकारणम् ।
लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ९६ ॥ प्राण । इहलोक-परलोकद्वयविरुद्धं परस्त्रियां गमनं संभोगरतं त्यजेत् । शेषं स्पष्टम् ॥ ९६॥
सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् ।
मृतश्च नरकं घोरं लभते पारदारिकः ॥ ९७ ॥ सर्वः। सर्वस्वधनहरणं रज्ज्वादिना बन्धं शरीरा० पुंध्वजादिच्छेदं परलोके घोरनरकं पारदारिको लभते ॥९७॥
स्वदाररक्षणे यत्नं विदधानो निरन्तरम् ।
जानन्नपि जनो दुःखं परदारान् कथं ब्रजेत् ॥ ९८॥ स्वदा । स्वदाररक्षणे यत्नं विदधानः जनो दुःखं जानन्नपि सुधी: परदारान् कथं ब्रजेत् ॥ ९८॥
SHEHCHEHREHEETECENERGREEEEEEEEETEHRISTER
।।१३६९॥
Jain Education Inte
For Private & Personal Use Only
Pow.jainelibrary.org