________________
॥ १३६७ ॥
Jain Education Inte
addleeati
मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव हि । यासां साधारणत्रीणां ताः कथं सुखहेतवः ॥ ८८ ॥
यासां साधारणस्त्रीणां मनस्यन्यदित्यादि सुगमम् ॥ ८८ ॥
मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् ।
को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ ८९ ॥
मांस० । अनेकविटैश्वम्बितमास्वादितम् उच्छिष्टं भोजनमिव वेश्यावदनं कथुम्बेत् ? न कोऽपीत्यर्थः । शेषं स्पष्टम् ॥ ८९ ॥ अपि सर्वस्वात् कामुकात् क्षीणसंपदः । वासोऽप्याच्छेत्तुमिच्छन्तिः गच्छतः पण्ययोषितः ॥ ९० ॥
अपि० । महाधनावस्थायां प्रदत्तसर्वस्वादपि पुण्यक्षयात् क्षीणसंपदः कामुकात् स्वगृहं प्रति गच्छतः वासः परिधानवस्त्रमपि आच्छेत्तुं बलाद् ग्रहीतुमिच्छन्ति ॥ ९० ॥
न देवान गुरून्नापि सुहृदो न च बान्धवान् । असत्सङ्गरतिर्नित्यं वेश्यावश्यो हि मन्यते ॥ ९१ ॥
न दे० । असद्भिर्विटादिभिर्यः सङ्गस्तत्र रतिर्वेश्यावश्यो नरो देवान्न मन्यते । एवं सर्वत्र ॥ ९१ ॥
For Private & Personal Use Only
alalalalalaOKE
5
10
॥ १३६७ ॥
rainelibrary.org