________________
षष्ठं परिशिष्टम्
॥ १३६६ ॥
Jain Education Inte
ralalalaaleeeeeee
veerderereeeee
प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः || ८५ ॥
प्राप्तुं । अपारस्य पारावारस्य समुद्रस्य पारं प्राप्तुं पार्यते शक्यते, स्वभाववकाणां स्त्रीणां दुश्चेष्टितस्य पुनर्नैव ॥ ८५ ॥ नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ।। ८६ ।।
जीवयशा इव
नित० । नितम्बिनीशब्दो यौवनोन्माददर्शनार्थः । पतिं सूर्यकान्तेव प्रदेशिनम्, पुत्र चुलनीय ब्रह्मदत्त, जरासन्धं पितरम्, कालादिभातॄंश्च, अकार्ये कार्याभावेऽल्पकार्ये वा सति प्राणसंशये प्राणनाशकरेऽपि स्थान आरोपयन्ति
दुष्टाचाराः ।। ८६ ।
भवस्य बीजं नरकद्वारमार्गस्य दीपिका |
शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥ ८७ ॥
भव० । शुचां शोकानां कन्दः कलहस्य तरोवि मूलं शारीरमानसानां दुःखानां लवणादीनामिव खानिः ॥ ८७ ॥
1 " आरोपयन्ति संदेहतुलायामतिनिर्दयाः । नार्यः पतिं च पुत्रं च पितरं च क्षणादपि ॥ ६६७ ॥ दुःखखानिरगाधेयं कलेर्मूलं भयस्य च । पापबीजं शुचां कन्दः श्वभ्रावनिर्नितम्बिनी ॥ ६८९ ॥ मनस्यन्यद्वचस्यन्यद्वपुष्यन्यद्विचेष्टितम् । यासां प्रकृतिदोषेण प्रेम तासां कियच्चिरम् || ६६९ ॥ " इति ज्ञानार्णवे ।
I
For Private & Personal Use Only
अवचूर्णिसहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
।। १३६६ ।।
10
www.jainelibrary.org