SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ॥ १३६५॥ स्त्रीसं० । स्त्रीसंभोगेन कामज्वरं प्रतिचिकीर्षति निराकर्तुमिच्छति स हुताशमग्नि घतक्षेपेण शमयितुमिच्छति ॥ ८१ ॥ बरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥ ८२॥ वरं । ज्वलल्लोहस्तम्भस्याश्लेषो विधीयते तद वरम् । नरकस्य द्वारमिव रामाजघनस्य सेवनं पुनर्नैव वरमिति ॥ ८२ ॥ · सतामपि हि वामभ्रूर्ददाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥ ८३ ॥ सता० । सतां महात्मनामपि विरचितलोचन विकारा वाममूहृदये पदं स्थानं ददाना स्मरणमात्रेणापि चित्ते निहिता जीवस्य रमणीयं गुणसमूह निर्वापयति उदासयति, श्लेषच्छाया चेयं ज्ञेया, यथा कुनियोगी देशमध्ये पदं ददान एव लोभादिना ग्रामानुद्वासयति एवं हृदये लब्धपदा कामिन्यपि पालनीयं विवेकादिगुणग्रामम् ॥ ८३ ॥ वश्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता। इति नैसर्गिका दोषा यासां तासु रमेत कः ॥ ८४ ॥ वञ्च० । नशंसत्वं क्रूरकर्मकारित्वम् । कुशीलता दुष्टस्वभावत्वम् । यासाम् एते स्वाभाविकदोषास्तासु को रमेत रतिं कुर्यात् ! न कोऽपीत्यर्थः ।। ८४ ॥ 1 “वरमाज्यच्छटोन्नद्धः परिरब्धो हुताशनः । न पुनर्दुगतेद्वारं योषितां जघनस्थलम् ॥ ७०१॥” इति शानार्णवे ॥ 2 “निर्दयत्वमनार्यत्वं मूर्खत्वमतिचापलम् । वञ्चकत्वं कुशीलत्वं स्त्रीणां दोषाः स्वभावजाः ॥ ६४९ ॥” इति ज्ञानार्णवे॥ ॥१३६५॥ Jain Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy